लघु वाल्गुदभारत- भाग २.
वाल्गुदसंभवः
अस्त्युत्तरस्यां दिशि *बन्धकात्मा |
स गॉथमो नाम पुराधिराजः |
पूर्वापरौ द्रव्यनिधी विगाह्य |
स्थितः पृथिव्या इव मानदण्डः ||१||
गॉथमीयेषु श्रेष्ठेषु एकं श्रेष्ठतमं कुलम् |
तत्र सः जनितो ब्रूसः खलु वेनकुलोद्भवः ||२||
जीवने शैशवं रम्यं शैशवं धनिनां खलु |
तत्रापि खलु मित्राणि तत्र क्रीडासमुच्चयः ||३||
मातापितरौ आल्फ्रेडो रेचेल् साऽपि तथैव च |
एते एव हि आसन् तद्विश्वे अन्ये न केऽपि च ||४||
(अथैकदा)
असौ अगच्छत् भवनस्य पश्चात् |
वेगेन पादस्खलनेन चास्य |
शीघ्रं गुहायां अपतत् स ब्रूसः |
ठंठंठठंठं ठठठंठठंठः ||५||
(क्रमशः)
* बन्धक=शहर.
उत्तमोत्तमा : ॥
मजा येतेय.
Two Face: "You either die a
या देवै सर्वभूतेषु
जबरी झालय रे. मान गये.
एशः गोथॅम नगरस्य
भो: विजुभ्रातः अहं केवलं
मस्त आहे.
किंवा भोजाच्या बायकोच्या
अति सुंदरं
बातम्या ऐकल्या सार वाटल
छान
साधु: साधु: