मराठी साहित्य, संस्कृती आणि लेखनाचे व्यासपीठ

गन्धाल्पबलरागीयम् | Gandalf and the Balrog.

बॅटमॅन · · जे न देखे रवी...
लेखनविषय:
काव्यरस
लॉर्ड ऑफ द रिंग्स पिच्चरची जी ट्रिलजी आहे त्यातील पहिला भाग. प्रसंग तोच आपला नेहमीचा: बुढ्ढा गँडाल्फ आणि समोर तो महाकाय बॅलरॉग. बुढ्ढ्याचे काय होणार या विवंचनेतच सगळे होते. पुढे काय झाले? काही शब्दार्थ अगोदरच दिलेले बरे. गंधाल्प- गँडाल्फ. सगळीकडे फिरूनही स्वतःच्या अफाट ताकदीचा परिचय न दिल्यामुळे अल्प आहे ज्याचा गंध असा तो. बलराग- बॅलरॉग. वामन- बुटका अर्थात ड्वार्फ. अनल्प - एल्फ. एल्फ लोक हे अमर असतात आणि एकूणच समृद्धीत राहतात म्हणून त्यांना अन् + अल्प असे नाव दिले. हवित्तक - हॉबिट. प्रद- फ्रोडो, श्याम- सॅम, पिपिन-पिपिन, मारी-मेरी. वज्राद- विझार्ड, शिवाय वज्र खाणारा तो वज्राद अर्थात प्रचंड पॉवरफुल. सरुमान- सारुमान., रघुलास- लेगोलास, गम्बली - गिमली, वरमिहिर - बोरोमीर, अलघूर्ण- आरागोर्न. मौर्यखनि- माईन्स ऑफ मोरिया. औरग - ऑर्क. कथैषा मध्यदेशस्य द्वापरे ह्यघटत्खलु | मुद्रिकाभञ्जनस्यैषा सा कथा शृणुयु:स्तदा ||१|| पूर्वं हि कथिता सम्यक्कथाया: पूर्वपीठिका | मुद्रिकाभञ्जनायैव शायरात्ते बहिर्गता: ||२|| के क आसन् चमौ तस्मिन्? तत्र वै सर्ववंशिका: | पुरुषा: वामनाश्चापि, अनल्पाश्च हवित्तका: ||३|| गन्धाल्पोऽपि तु तत्रासीत्सर्वाणां मार्गदर्शकः | वज्रादो ज्ञानवॄद्धो सः सरुमानसमः खलु ||४|| प्रद: श्यामः पिपिन् मारी रघुलासश्च गम्बली | सार्धं च वरमिहिर: अलघूर्णश्च अन्तिमः ||५|| मौर्यखन्यां तु ह्यगमन् निरुपायाच्च ते खलु | तत्र वामनराज्ञा तु आसन् ते स्वागताकाङ्क्षिण: ||६|| औरगै: किन्तु तद्राज्यं कॄतं नष्टं हि सत्त्वरम् | वसन्ति स्म पूर्वखन्यौ तेन दुष्टाश्च औरगा: ||७|| बहूँश्चौरगपिशाच्चान् हत्वाऽस्माकं जनास्त्वहो | अधावन् त्वरया सार्धं गन्तुं खन्या: बहिस्तथा ||८|| तदानीमेकदाऽपश्यन् कोष्ठं गुरुतम़ं जना: | उच्चै: नैकैरहो स्तम्भै: धृतवान् कोष्ठभार ह ||९|| पुनस्तत्र नवचमू: अरिभि: परिवेष्टितः| तदानीमेव विचित्रः ध्वनि: गुरुतरोऽभवत् ||१०|| तच्छृत्वा शत्रवो सर्वे ह्यधावन् तेऽचिरात्खलु | नवचमौ जना: सर्वे क्षणाय वै अमोदयन् ||११|| छाया चाग्नि च इत्येतं सरुमानोऽवदत् पुरा | गन्धाल्पं तच्च गन्धाल्पं तदानीमस्मरत् तदा ||१२|| "एषः उच्चतमः शत्रु:, इदानीं तु पलायनम् | इत्येव करणीयं स्यात्" गन्धाल्पश्चावदत्त्विदम् ||१३|| अधावन् त्वरया सर्वे यदैतच्च श्रुतम् तदा | तदानीमन्तिमे चांशे सेतुरेको हि दृश्यमान् ||१४|| कज्जलधूम चानेन नाम्ना ज्ञात: स सेतु वै | आक्रम्य सेतुमेनं तु जना: पारं गता: परम् ||१५|| गन्धाल्पः तत्र वै स्थित्वा अपश्यत्स मुहुर्मुहु:| अचिरात्तत्र चागच्छत् महाशत्रु: निशाचरः ||१६|| बलरागः इति नाम्ना विख्यातः शत्रु स: महान् | महाकाय: चतुर्बाहु: अग्निमान् धूमवाँश्च सः ||१७|| प्राचीनराक्षसेणाग्निप्रतोदोऽपि तु धार्यते | प्रतोदनर्तनं दृष्ट्वा मर्त्या: भीता: तु सत्त्वरम् ||१८|| गन्धाल्पो किन्तु तत्रैव सेतोरुपरि वै स्थित: | "गच्छ सूकर गुंफायां, प्रवेशोऽत्र निषिध्यते" ||१९|| इत्यवदत् भयहीनः "महावह्नेऽस्मि किङ्करः | अन्ध:कारबलादत्र न कदा प्रभविष्यसि ||२०||" तच्छ्रुत्वा बलरागस्तु दिव्यासिमुपयुक्तवान् | गन्धाल्पोऽपि प्रकाशस्य वलयेन तु वेष्टितः ||२१|| बलरागः हतबल: प्राभवन्नात्र चासिना | पादाक्रान्तं तदा सेतुं कर्तुं सः आगतोऽग्रतः ||२२|| महाक्रोशेण क्रोधेण गन्धाल्पः जल्पते तथा | "नैवागच्छ नैवागच्छ गच्छ गच्छ हि पृष्ठत:" ||२३|| तदानीं सेतुभागं च गन्धाल्पस्तु अताडयत् | सेतुर्नष्टो बलरागस्तेन स: पतितो ह्यधः ||२४|| बलरागप्रतोदेण बद्ध्वा गन्धाल्पमत्र सः | बलरागो हि अगृह्णात् अधः तेन सह अहो ||२५|| तत्पश्चाद्घटना: नैका: अभवन् तांस्त्वहम् | कथयिष्यामि अत्रैव समयेऽन्ये यथामति:||२६|| || इति श्री मुद्रिकाभारते प्रथमे मुद्रिकानाशकचमूनाम्नि पर्वे मौर्यखन्याध्यायः समाप्तः ||

वाचन 16605 प्रतिक्रिया 0