मराठी साहित्य, संस्कृती आणि लेखनाचे व्यासपीठ

मुद्राराक्षस किंवा एका अंगुलीयकाने.

बॅटमॅन · · जे न देखे रवी...
लेखनविषय:
लॉर्ड ऑफ द रिंग्जचे जरा जुनाट पद्धतीने केलेले वर्णन आहे. जाड्या टाईपातल्या शब्दांमुळे लग्गेच समजेल. मध्यदेशे पुरा कल्पे निर्मिता: अङ्गुलीयका: | धृतास्ते तु त्रयो एल्फै: ये तत्र पण्डितोत्तमा:||१|| सप्त धृता: खलु ड्वार्फै: ते सर्वे खानकोत्तमा: | अङ्गुलीयका: नवति लोभिभि: मनुजै: धृता: ||२|| अङ्गुलीयकै: खल्वेतै: राजन्ते तु नृपा: खलु | तान्सर्वान वञ्चयत्येकः मान्त्रिकस्तु भयङ्करः||३|| मॉर्डॉरमंडले एकोऽत्तुङ्गो ज्वालामुखी नगः | मृत्युपर्वतनाम्ना सः मध्यदेशे प्रकीर्तितः||४|| मान्त्रिकः स सॉरॉनाख्यः मृत्युपर्वतवह्निषु | मन्त्रशक्त्या: हि कृतवान् अमोघं अङ्गुलीयकम्||५|| अन्यातिशायी एको हि तस्य भो: अङ्गुलीयकः | तस्य सामर्थ्यमात्रेण इतरास्तु हतप्रभा: ||६|| अन्धःकारे नॄपान्सर्वान् बद्ध्वा कारागृहे तथा | मध्यदेशोऽनुवर्तेत ममैतं चाङ्गुलीयकं ||७|| मनस्येतन्मन्यमानः सर्वथैव मुहुर्मुहु: | मध्यदेशस्य राज्यानि स दासीकृतवान् खलु ||८|| केचिदासन् परं तत्र खलु स्वातंत्र्यकामिन: | आहूतः अंतिमः सङ्घः तथा मनुजएल्फयो: ||९|| भयङ्करं महायुद्धं मृत्युपर्वतरोधसि | सॉरॉनस्य ये योद्धारः ऑर्कनाम्ना प्रकीर्तिता: ||१०|| एल्फमनुष्ययोश्चैव दृष्टमानः जयो यथा | मान्त्रिकेभ्यः महाकाय: सॉरॉन: समुपस्थितः ||११|| महोत्तुङ्गो दंडधारी युध्यमानः स्वयं खलु | न शक्यं तमपाकर्तुं केनाप्यायुधजीविना ||१२|| तथापि स: प्रयतत शूरः गान्धारभूनृपः | दण्डप्रहारमात्रेण क्षिप्तः दूरे स शत्रुणा ||१३|| पितरः कृते विलपति पुत्रस्तस्य इसिल्डुरः | यदानीमसिदण्डं स: अगृह्णात् महदाहवे ||१४|| तदानीमेव अचिरात् मान्त्रिकेण पदेन वै | द्विधा कृतः असिदण्डः तेन च भयकारिणा||१५|| जयाशा हि गता एव तथा मनुजएल्फयो: | गतो राजा तदानीं तु किं नु युद्धेन सिध्यते ||१६|| तथापि स इसिल्डूरो न बिभेति कदाचन | खण्डितेनासिमात्रेण युद्धाय कृतनिश्चयः ||१७|| अछिनत् सः सपद्येव सॉरॉनस्याङ्गुलान्यहो!! निष्प्रभस्तु तथा तस्य प्रचण्डः अङ्गुलीयकः ||१८|| महत्शौर्यं महद्धैर्यं देवतुल्यं हि साधु भो: !!! अतिचिरात् स सॉरॉनः मध्यदेशात् पलायितः||१९|| कथैषा कथिता आदौ जेआरार्-टोल्किनेन या | आङ्लवाण्यास्तु आनीय भारत्यां अनुकीर्तिता ||२०|| अपूर्णं काव्यमेतत्तु अवशिष्टम् अनेकशः | स्फूर्ति-समयबाहुल्यात् रचयिष्याम्यहं खलु ||

वाचन 7919 प्रतिक्रिया 39