मुद्राराक्षस किंवा एका अंगुलीयकाने.
लेखनविषय:
लॉर्ड ऑफ द रिंग्जचे जरा जुनाट पद्धतीने केलेले वर्णन आहे. जाड्या टाईपातल्या शब्दांमुळे लग्गेच समजेल.
मध्यदेशे पुरा कल्पे निर्मिता: अङ्गुलीयका: |
धृतास्ते तु त्रयो एल्फै: ये तत्र पण्डितोत्तमा:||१||
सप्त धृता: खलु ड्वार्फै: ते सर्वे खानकोत्तमा: |
अङ्गुलीयका: नवति लोभिभि: मनुजै: धृता: ||२||
अङ्गुलीयकै: खल्वेतै: राजन्ते तु नृपा: खलु |
तान्सर्वान वञ्चयत्येकः मान्त्रिकस्तु भयङ्करः||३||
मॉर्डॉरमंडले एकोऽत्तुङ्गो ज्वालामुखी नगः |
मृत्युपर्वतनाम्ना सः मध्यदेशे प्रकीर्तितः||४||
मान्त्रिकः स सॉरॉनाख्यः मृत्युपर्वतवह्निषु |
मन्त्रशक्त्या: हि कृतवान् अमोघं अङ्गुलीयकम्||५||
अन्यातिशायी एको हि तस्य भो: अङ्गुलीयकः |
तस्य सामर्थ्यमात्रेण इतरास्तु हतप्रभा: ||६||
अन्धःकारे नॄपान्सर्वान् बद्ध्वा कारागृहे तथा |
मध्यदेशोऽनुवर्तेत ममैतं चाङ्गुलीयकं ||७||
मनस्येतन्मन्यमानः सर्वथैव मुहुर्मुहु: |
मध्यदेशस्य राज्यानि स दासीकृतवान् खलु ||८||
केचिदासन् परं तत्र खलु स्वातंत्र्यकामिन: |
आहूतः अंतिमः सङ्घः तथा मनुजएल्फयो: ||९||
भयङ्करं महायुद्धं मृत्युपर्वतरोधसि |
सॉरॉनस्य ये योद्धारः ऑर्कनाम्ना प्रकीर्तिता: ||१०||
एल्फमनुष्ययोश्चैव दृष्टमानः जयो यथा |
मान्त्रिकेभ्यः महाकाय: सॉरॉन: समुपस्थितः ||११||
महोत्तुङ्गो दंडधारी युध्यमानः स्वयं खलु |
न शक्यं तमपाकर्तुं केनाप्यायुधजीविना ||१२||
तथापि स: प्रयतत शूरः गान्धारभूनृपः |
दण्डप्रहारमात्रेण क्षिप्तः दूरे स शत्रुणा ||१३||
पितरः कृते विलपति पुत्रस्तस्य इसिल्डुरः |
यदानीमसिदण्डं स: अगृह्णात् महदाहवे ||१४||
तदानीमेव अचिरात् मान्त्रिकेण पदेन वै |
द्विधा कृतः असिदण्डः तेन च भयकारिणा||१५||
जयाशा हि गता एव तथा मनुजएल्फयो: |
गतो राजा तदानीं तु किं नु युद्धेन सिध्यते ||१६||
तथापि स इसिल्डूरो न बिभेति कदाचन |
खण्डितेनासिमात्रेण युद्धाय कृतनिश्चयः ||१७||
अछिनत् सः सपद्येव सॉरॉनस्याङ्गुलान्यहो!!
निष्प्रभस्तु तथा तस्य प्रचण्डः अङ्गुलीयकः ||१८||
महत्शौर्यं महद्धैर्यं देवतुल्यं हि साधु भो: !!!
अतिचिरात् स सॉरॉनः मध्यदेशात् पलायितः||१९||
कथैषा कथिता आदौ जेआरार्-टोल्किनेन या |
आङ्लवाण्यास्तु आनीय भारत्यां अनुकीर्तिता ||२०||
अपूर्णं काव्यमेतत्तु अवशिष्टम् अनेकशः |
स्फूर्ति-समयबाहुल्यात् रचयिष्याम्यहं खलु ||
वाचन
7919
प्रतिक्रिया
39